निर्वाणाष्टकम / आत्माष्टकम मनोबुद्धयहंकार चित्तानि नाहं, न च श्रोत्रजिव्हे न च घ्राणनेत्रे । न च व्योम भूमिर्न तेजो न वायुः, चिदानन्दरूपः शिवोहं शिवोहम् ॥ १ ॥ न वै प्राणसंज्ञा न वै पंचवायुः, न वा सप्तधातुर्न वा पंचकोषः। न वाक्पाणि पादौ न चोपस्थ-पायुः चिदानन्दरूपः शिवोहं शिवोऽहम् ॥ २ ॥ न मे रागद्वेषौ, न मे लोभमोहौ, मदो नैव मे नैव मात्सर्यभावः। न धर्मों, न चार्थो न कामो न मोक्षः चिदानन्दरूपः शिवोहं शिवोऽहम् ॥ ३ ॥ न पुण्यं न पापं न सौख्यं न दुःखं, न मंत्रो न तीर्थो न वेदा न यज्ञाः। अहं भोजनम् नैव…
शिव स्तुति (भैरवरूप शिव-स्तुति) शंकरं, शंप्रदं, सज्जनानंददं, शैल-कन्या-वरं, परमरम्यं । काम-मद-मोचनं, तामरस-लोचनं, वामदेवं भजे भावगम्यं ॥ १ ॥ कंबु-कुंदेंदु-कर्पूर-गौरं शिवं, सुन्दरं, सच्चिदानंदकंदं । सिद्ध-सनकादि-योगीन्द्र-वृन्दारका, विष्णु-विधि-वन्द्य चरणारविंदं ॥ २ ॥ ब्रह्म-कुल-वल्लभं, सुलभ मति दुर्लभं, विकट-वेषं, विभुं, वेदपारं । नौमि करुणाकरं, गरल-गंगाधरं, निर्मलं, निर्गुणं, निर्विकारं ॥ ३ ॥ लोकनाथं, शोक-शूल-निर्मूलिनं, शूलिनं मोह-तम-भूरि-भानुं । कालकालं, कलातीतमजरं, हरं, कठिन-कलिकाल-कानन-कृशानुं ॥ ४ ॥ तज्ञमज्ञान-पाथोधि-घटसंभवं, सर्वगं…
शम्भुस्तुतिः (श्रीब्रह्मपुराणे शम्भुस्तुतिः) श्रीराम उवाच: नमामि शम्भुं पुरुषं पुराणः नमामि सर्वज्ञमपारभावम् । नमामि रुद्रं प्रभुमक्षयं तं नमामि शर्वं शिरसा नमामि ॥ १ ॥ नमामि देवं परमव्ययं तमुमापतिं लोकगुरुं नमामि । नमामि दारिद्र्यविदारणं तं नमामि रोगपहरं नमामि ॥ २ ॥ नमामि कल्याणमचिन्त्यरुपं नमामि विश्वोद्भवबीजरुपम् । नमामि विश्वस्थितिकारणं तं नमामि संहारकरं नमामि ॥ ३ ॥ नमामि गौरिप्रियमव्ययं तं नमामि नित्यं क्षरमक्षरं तम् । नमामि चिद्रूपममेयभावं त्रिलोचनं तं शिरसा नमामि ॥ ४ ॥ नमामि कारुण्यकरं भवस्य भयंकरं वाऽपि सदा नमामि । न…
शिवस्तुतिः (श्रीस्कनदमहापुराणे कुमारिकाखण्डे) स्कन्द उवाच: नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय । नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय ॥ १ ॥ नमो भवायास्तु भवोद्भवाय नमोऽस्तु ते ध्वस्तमनोभवाय । नमोऽस्तु ते गूढमहाव्रताय नमोऽस्तु मायागहनाश्रयाय ॥ २ ॥ नमोऽस्तु शर्वाय नमः शिवाय नमोऽस्तु सिद्धाय पुरातनाय । नमोऽस्तु कालाय नमः कलाय नमोऽस्तु ते कालकलातिगाय ॥ ३ ॥ नमो निसर्गात्मकभूतिकाय नमोऽस्त्वमेयोक्षमहर्द्धिकाय । नमः शरण्याय नमोऽगुणाय नमोऽस्तु ते भीमगुणानुगाय ॥ ४ ॥ नमोऽस्तु नानाभुवनाधिकर्त्रे नमोऽस्तु भ…
श्रीशिवमहामृत्युञ्जय स्तुति प्रारम्भः कैलासस्योत्तरे श्रृङ्गे शुद्धस्फटिकसन्निभे । तमोगुण्विहीने तु जरामृत्युविवर्जिते ।। १ ।। सर्वार्थसम्पदाधारे सर्वज्ञानकृतालये । कृताञ्जलिपुटो ब्रह्मा ध्यानासीनं सदाशिवम् ।। २ ।। पप्रच्छ्प्रणतो भूत्वा जानुभ्यामवनिं गत: । सर्वार्थसम्पदाधार ब्रह्मलोक पितामह: ।। ३ ।। ...
शिवनामावल्यष्टकं हे चन्द्रचूड मदनान्तक शूलपाणे स्थाणो गिरीश गिरिजेश महेश शंभो || भूतेश भीतभयसूदन मामनाथं संसारदुःखगहनाज्जगदीश रक्ष ||१|| हे पार्वतीहृदयवल्लभ चन्द्रमौले भूताधिप प्रमथनाथ गिरीशचाप || हे वामदेव भव रुद्र पिनाकपाणे संसारदुःखगहनाज्जगदीश रक्ष ||२|| हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र लोकेश शेषवलय प्रमथेश शर्व || हे धूर्जटे पशुपते गिरिजापते मां संसारदुःखगहनाज्जगदीश रक्ष ||३|| हे विश्वनाथ शिव शंकर देवदेव गङ्गाधर प्रमथनायक नन्दिकेश || बाणेश्वरान्धकरिपो हर लोकनाथ संसारदुःखगहनाज्जगदीश रक्ष ||४|| वाराणसीपुरपते मणिकर्ण…
महादेव अष्टकम् शिवं शान्तं शुद्धं प्रकटमकळङ्कं श्रुतिनुतं महेशानं शंभुं सकलसुरसंसेव्यचरणम् । गिरीशं गौरीशं भवभयहरं निष्कळमजं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥१॥ सदा सेव्यं भक्तैर्हृदि वसन्तं गिरिशय- मुमाकान्तं क्षान्तं करघृतपिनाकं भ्रमहरम् । त्रिनेत्रं पञ्चास्यं दशभुजमनन्तं शशिधरं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥२॥ चिताभस्मालिप्तं भुजगमुकुटं विश्वसुखदं धनाध्यक्षस्याङ्गं त्रिपुरवधकर्तारमनघम् । करोटीखट्वाङ्गे ह्युरसि च दधानं मृतिहरं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥३॥ सदोत्साहं गङ्गाधरमचलमानन्दकरणं पुरारातिं भातं रतिपतिहरं…
॥तस्य द्वादशनामस्तोत्रम्॥ महादेव प्रथमस्तु महादेवो द्वितीयस्तु महेश्वरः तृतीयः शङ्करो ज्ञेयश्चतुर्थो वृषभध्वजः॥१॥ पञ्चमः कृत्तिवासाश्च षष्ठः कामाङ्गनाशनः। सप्तमो देवदेवेशः श्रीकण्ठश्चाष्टमः स्मृतः॥२॥ <script async src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js"></script> <ins class="adsbygoogle" style="display:block; text-align:center;" data-ad-layout="in-article" data-ad-format="fluid" data-ad-client="ca-pub-3199603…
Social Plugin