निर्वाणाष्टकम / आत्माष्टकम मनोबुद्धयहंकार चित्तानि नाहं, न च श्रोत्रजिव्हे न च घ्राणनेत्रे । न च व्योम भूमिर्न तेजो न वायुः, चिदानन्दरूपः शिवोहं शिवोहम् ॥ १ ॥ न वै प्राणसंज्ञा न वै पंचवायुः, न वा सप्तधातुर्न वा पंचकोषः। न वाक्पाणि पादौ न चोपस्थ-पायुः चिदानन्दरूपः शिवोहं शिवोऽहम् ॥ २ ॥ न मे रागद्वेषौ, न मे लोभमोहौ, मदो नैव मे नैव मात्सर्यभावः। न धर्मों, न चार्थो न कामो न मोक्षः चिदानन्दरूपः शिवोहं शिवोऽहम् ॥ ३ ॥ न पुण्यं न पापं न सौख्यं न दुःखं, न मंत्रो न तीर्थो न वेदा न यज्ञाः। अहं भोजनम् नैव…
शिव स्तुति (भैरवरूप शिव-स्तुति) शंकरं, शंप्रदं, सज्जनानंददं, शैल-कन्या-वरं, परमरम्यं । काम-मद-मोचनं, तामरस-लोचनं, वामदेवं भजे भावगम्यं ॥ १ ॥ कंबु-कुंदेंदु-कर्पूर-गौरं शिवं, सुन्दरं, सच्चिदानंदकंदं । सिद्ध-सनकादि-योगीन्द्र-वृन्दारका, विष्णु-विधि-वन्द्य चरणारविंदं ॥ २ ॥ ब्रह्म-कुल-वल्लभं, सुलभ मति दुर्लभं, विकट-वेषं, विभुं, वेदपारं । नौमि करुणाकरं, गरल-गंगाधरं, निर्मलं, निर्गुणं, निर्विकारं ॥ ३ ॥ लोकनाथं, शोक-शूल-निर्मूलिनं, शूलिनं मोह-तम-भूरि-भानुं । कालकालं, कलातीतमजरं, हरं, कठिन-कलिकाल-कानन-कृशानुं ॥ ४ ॥ तज्ञमज्ञान-पाथोधि-घटसंभवं, सर्वगं…
शम्भुस्तुतिः (श्रीब्रह्मपुराणे शम्भुस्तुतिः) श्रीराम उवाच: नमामि शम्भुं पुरुषं पुराणः नमामि सर्वज्ञमपारभावम् । नमामि रुद्रं प्रभुमक्षयं तं नमामि शर्वं शिरसा नमामि ॥ १ ॥ नमामि देवं परमव्ययं तमुमापतिं लोकगुरुं नमामि । नमामि दारिद्र्यविदारणं तं नमामि रोगपहरं नमामि ॥ २ ॥ नमामि कल्याणमचिन्त्यरुपं नमामि विश्वोद्भवबीजरुपम् । नमामि विश्वस्थितिकारणं तं नमामि संहारकरं नमामि ॥ ३ ॥ नमामि गौरिप्रियमव्ययं तं नमामि नित्यं क्षरमक्षरं तम् । नमामि चिद्रूपममेयभावं त्रिलोचनं तं शिरसा नमामि ॥ ४ ॥ नमामि कारुण्यकरं भवस्य भयंकरं वाऽपि सदा नमामि । न…
शिवस्तुतिः (श्रीस्कनदमहापुराणे कुमारिकाखण्डे) स्कन्द उवाच: नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय । नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय ॥ १ ॥ नमो भवायास्तु भवोद्भवाय नमोऽस्तु ते ध्वस्तमनोभवाय । नमोऽस्तु ते गूढमहाव्रताय नमोऽस्तु मायागहनाश्रयाय ॥ २ ॥ नमोऽस्तु शर्वाय नमः शिवाय नमोऽस्तु सिद्धाय पुरातनाय । नमोऽस्तु कालाय नमः कलाय नमोऽस्तु ते कालकलातिगाय ॥ ३ ॥ नमो निसर्गात्मकभूतिकाय नमोऽस्त्वमेयोक्षमहर्द्धिकाय । नमः शरण्याय नमोऽगुणाय नमोऽस्तु ते भीमगुणानुगाय ॥ ४ ॥ नमोऽस्तु नानाभुवनाधिकर्त्रे नमोऽस्तु भ…
श्रीपरमेश्वरस्तोत्रम् जगदीश सुधीश भवेश विभो परमेश परात्पर पूत पित:। प्रणतं पतितं हतबुद्धिबलं जनतारण तारय तापितकम्॥ 1 ॥ गुणहीनसुदीनमलीनमतिं त्वयि पातरि दातरि चापरतिम्। तमसा रजसावृतवृत्तिमिमं जनतारण तारय तापितकम् ॥ 2 ॥ मम जीवनमीनमिमं पतितं मरुघोरभुवीह सुवीहमहो। करुणाब्धिचलोर्मिजलानयनं जनतारण तारय तापितकम् ॥ 3 ॥ भववारण कारण कर्मततौ भवसिन्धुजले शिव मग्नमत:। करुणाञ्च समर्प्य तरिं त्वरितं जनतारण तारय तापितकम् ॥ 4 ॥ अतिनाश्य जनुर्मम पुण्यरुचे दुरितौघभरै: परिपूर्णभुव:। सुजघन्यमगण्यमपुण्यरुचिं जनतारण तार…
भोजन मंत्र ओ 3 म् अन्नपते S न्नस्य नो देह्यनमीवस्य शुष्मिणः / प्र प्रदातारं तारिष ऊर्ज्जं नो धेहि द्विपदे चतुष्पदे // ओ 3 म् शान्तिः शान्तिः शान्तिः ! - यजुर्वेद ११.८३ नानाविध अन्नों के दाता, सब विध अन्न प्रदान करो, रोग रहित और पुष्टि कारक, अन्न दे ओज प्रदान करो / अन्न दाता के मंगल कर्ता, ऐसा प्रभु विधान करो प्राणी मात्र सब पायें भोजन, सबको (सुख-) शान्ति प्रदान करो //
श्रीशिवमहामृत्युञ्जय स्तुति प्रारम्भः कैलासस्योत्तरे श्रृङ्गे शुद्धस्फटिकसन्निभे । तमोगुण्विहीने तु जरामृत्युविवर्जिते ।। १ ।। सर्वार्थसम्पदाधारे सर्वज्ञानकृतालये । कृताञ्जलिपुटो ब्रह्मा ध्यानासीनं सदाशिवम् ।। २ ।। पप्रच्छ्प्रणतो भूत्वा जानुभ्यामवनिं गत: । सर्वार्थसम्पदाधार ब्रह्मलोक पितामह: ।। ३ ।। ...
शिवनामावल्यष्टकं हे चन्द्रचूड मदनान्तक शूलपाणे स्थाणो गिरीश गिरिजेश महेश शंभो || भूतेश भीतभयसूदन मामनाथं संसारदुःखगहनाज्जगदीश रक्ष ||१|| हे पार्वतीहृदयवल्लभ चन्द्रमौले भूताधिप प्रमथनाथ गिरीशचाप || हे वामदेव भव रुद्र पिनाकपाणे संसारदुःखगहनाज्जगदीश रक्ष ||२|| हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र लोकेश शेषवलय प्रमथेश शर्व || हे धूर्जटे पशुपते गिरिजापते मां संसारदुःखगहनाज्जगदीश रक्ष ||३|| हे विश्वनाथ शिव शंकर देवदेव गङ्गाधर प्रमथनायक नन्दिकेश || बाणेश्वरान्धकरिपो हर लोकनाथ संसारदुःखगहनाज्जगदीश रक्ष ||४|| वाराणसीपुरपते मणिकर्ण…
महादेव अष्टकम् शिवं शान्तं शुद्धं प्रकटमकळङ्कं श्रुतिनुतं महेशानं शंभुं सकलसुरसंसेव्यचरणम् । गिरीशं गौरीशं भवभयहरं निष्कळमजं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥१॥ सदा सेव्यं भक्तैर्हृदि वसन्तं गिरिशय- मुमाकान्तं क्षान्तं करघृतपिनाकं भ्रमहरम् । त्रिनेत्रं पञ्चास्यं दशभुजमनन्तं शशिधरं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥२॥ चिताभस्मालिप्तं भुजगमुकुटं विश्वसुखदं धनाध्यक्षस्याङ्गं त्रिपुरवधकर्तारमनघम् । करोटीखट्वाङ्गे ह्युरसि च दधानं मृतिहरं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥३॥ सदोत्साहं गङ्गाधरमचलमानन्दकरणं पुरारातिं भातं रतिपतिहरं…
॥तस्य द्वादशनामस्तोत्रम्॥ महादेव प्रथमस्तु महादेवो द्वितीयस्तु महेश्वरः तृतीयः शङ्करो ज्ञेयश्चतुर्थो वृषभध्वजः॥१॥ पञ्चमः कृत्तिवासाश्च षष्ठः कामाङ्गनाशनः। सप्तमो देवदेवेशः श्रीकण्ठश्चाष्टमः स्मृतः॥२॥ <script async src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js"></script> <ins class="adsbygoogle" style="display:block; text-align:center;" data-ad-layout="in-article" data-ad-format="fluid" data-ad-client="ca-pub-3199603…
।।एकात्मता स्तोत्रम्।। ॐ नमः सच्चिदानंदरूपाय परमात्मने ज्योतिर्मयस्वरूपाय विश्वमांगल्यमूर्तये॥१॥ प्रकृतिः पंचभूतानि ग्रहलोकस्वरास्तथा दिशः कालश्च सर्वेषां सदा कुर्वंतु मंगलम्॥२॥ रत्नाकराधौतपदां हिमालयकिरीटिनीम् ब्रह्मराजर्षिरत्नाढ्याम् वन्दे भारतमातरम् ॥३॥ महेंद्रो मलयः सह्यो देवतात्मा हिमालयः ध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तथा ॥४॥ गंगा सरस्वती सिंधु ब्रह्मपुत्राश्च गंदकी कावेरी यमुना रेवा कृष्णा गोदा महानदी ॥५॥ अयोध्या मथुरा माया काशी कांची अवंतिका वैशाली द्वारका ध्येया पुरी तक्शशिला गया ॥६॥…
Social Plugin